(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

15.1. अध्यायः


मौसलपर्व - अध्याय 009
॥ श्रीः ॥
15.9. अध्यायः 009
Mahabharata - Mausala Parva - Chapter Topics
अर्जुनेन व्यासाश्रमे तद्दर्शनम्॥ 1 ॥ तस्मिन्द्वारकावृत्तान्तनिवेदनम्॥ 2 ॥ व्यासेनार्जुनंप्रति युधिष्ठिरादीनामपि स्वर्गगमनसूचनम्॥ 3 ॥ ततोऽर्जुनेन हास्तिनपुरमेत्य युधिष्ठिरे द्वारकावृत्तान्तादिनिवेदनम्॥ 4 ॥
Mahabharata - Mausala Parva - Chapter Text

वैशम्पायन उवाच।

प्रविश्य त्वर्जुनो राजन्नाश्रमं सत्यवादिनः।
ददर्शासीनमेकान्तो मुनिं सत्यवतीसुतम्॥ 15-9-1(97172)
स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम्।
अर्जुनोस्मीति नामास्तै निवेद्याभ्यवदत्ततः॥ 15-9-2(97173)
स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः।
आस्यतामिति होवाच प्रसन्नात्मा महामुनिः॥ 15-9-3(97174)
तमप्रतीतमनसं निःश्वसन्तं पुनःपुनः।
निर्विष्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम्॥ 15-9-4(97175)
नखकेशदशाकुंभवारिणा किं समुक्षितः।
आवीरजानुगमनं ब्राह्मणो वा हतस्त्वया॥ 15-9-5(97176)
युद्धे पराजितो वाऽसि दतश्रीरिव लक्ष्यसे।
न त्वां प्रभिन्नं जानामि किमिदं भरतर्षभ।
श्रोतव्यं चेन्मया पार्थ क्षश्रिप्रमाख्यातुमर्हसि॥ 15-9-6(97177)
अर्जुन उवाच। 15-9-7x(8026)
यः स मेघवपुः श्रीमान्बृहत्पङ्कजलोचनः।
स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः॥ 15-9-7(97178)
`तदनुस्मृत्य संमोहं तदा शोकं महामते।
प्रयामि सर्वदा मह्यं मुमूर्षा चोपजायते॥ 15-9-8(97179)
तद्वाक्यस्पर्शनालोकसुखं चामृतसन्निभम्।
संस्मृत्य देवदेवस्य प्रमुह्यित्यमृतात्मनः॥' 15-9-9(97180)
मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः।
बभूव वीरान्तकरः प्रभासे रोमहर्षणः॥ 15-9-10(97181)
एते शूरा महात्मानः सिंहदर्पा महाबलाः।
भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि॥ 15-9-11(97182)
गदापरिघशक्तीनां सहाः परिघबाहवः।
त एरकाभिर्निहताः पश्य कालस्य पर्ययम्॥ 15-9-12(97183)
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम्।
निधनं समनुप्राप्तं समासाद्येतरेतरम्॥ 15-9-13(97184)
पुनःपुनर्न मृष्यामि विनाशममितौजसाम्।
चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः॥ 15-9-14(97185)
शोषणं सागरस्येव मन्दरस्येव चालनम्।
नभसः पतनं चैव शैत्यमग्नेस्तथैव च॥ 15-9-15(97186)
अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः।
न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः॥ 15-9-16(97187)
इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन।
मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः॥ 15-9-17(97188)
पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः।
आभीरैरभिभूयाजौ हृताः पञ्चनदालयैः॥ 15-9-18(97189)
धनुरादाय तत्राहं नाशकं तस्य पूरणे।
यथापुरा च मे वीर्यं भुजयोर्न तथाऽभवत्॥ 15-9-19(97190)
अस्त्राणि मे प्रनष्टानि विविधानि महामुने।
शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः॥ 15-9-20(97191)
पुरुषस्चाप्रमेयात्मा शङ्खचक्रगदाधरः।
चतुर्भुजः पीतवासाः श्यामः पद्मदलेक्षणः॥ 15-9-21(97192)
यश्च याति पुरस्तान्मे रथस्य सुमहाद्युतिः।
प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम्॥ 15-9-22(97193)
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा।
शरैर्गाण्डीवनिर्मुक्तैरहं पश्चादशातयम्॥ 15-9-23(97194)
तमपश्यन्विषीदामि घूर्णामीव च सत्तम।
परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च॥ 15-9-24(97195)
`देवकीनन्दनं देवं वासुदेवमजं प्रभुम्।'
विना जनार्दनं वीरं नाहं जीवितुमुत्सहे॥ 15-9-25(97196)
श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः।
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः॥ 15-9-26(97197)
उपदेष्टुं मम श्रेयो भवानर्हति सत्तम॥ 15-9-27(97198)
व्यास उवाच। 15-9-28x(8027)
`देवांशा देवभूतेन सम्भूतास्ते गतास्सह।
धर्मव्यवस्थारक्षार्थं देवेन समुपेक्षिताः'॥ 15-9-28(97199)
ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकसमहारथाः।
विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि॥ 15-9-29(97200)
भवितव्यं तथा तच्च दिष्टमेतन्महात्मनाम्।
उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम्॥ 15-9-9(97201)
त्रैलोक्यमपि गोविन्दः कृत्स्नं स्थावरजङ्गमम्।
प्रसहेदन्यथा कर्तुं कुतः शापं महात्मनाम्॥ 15-9-31(97202)
`स्त्रियश्च ताः पुरा शप्ताः प्रभासे कुपितेन वै।
अष्टावक्रेण मुनिना तदर्थं त्वद्बलक्षयम्॥' 15-9-32(97203)
रथस्य पुरतो याति यः स चक्रगदाधरः।
तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः॥ 15-9-33(97204)
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः।
मोक्षयित्वा तनुं प्राप्तः कृष्णः स्वस्थानमुत्तमम्॥ 15-9-34(97205)
त्वयाऽपीह महत्कर्म देवानां पुरुषर्षभ।
कृतं भीमसहायेन यमाभ्यां च महाभुज॥ 15-9-35(97206)
कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुङ्गव।
गमनं प्राप्तकालं व इदं श्रेयस्करं विभो॥ 15-9-36(97207)
बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत।
भवन्ति भवकालेषु विपद्यन्ते विपर्यये॥ 15-9-37(97208)
कालमूलमिदं सर्वं जगद्बीजं धनंजय।
काल एव समादत्ते पुनरेव यदृच्छया॥ 15-9-38(97209)
स एव बलवान्भूत्वा पुनर्भवति दुर्बलः।
स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः॥ 15-9-39(97210)
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम्।
पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति॥ 15-9-40(97211)
कालो गन्तुं गतिं मुख्यां भवतामपि भारत।
एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ॥ 15-9-41(97212)
वैशम्पायन उवाच। 15-9-42x(8028)
एतद्वचनमाज्ञाय व्यासस्यामिततेजसः।
अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम्॥ 15-9-42(97213)
प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम्।
आचष्ट तद्यथावृत्तं वृष्ण्यन्धककुलं प्रति॥ ॥ 15-9-43(97214)

इति श्रीमन्महाभारते शतसाहस्रयां संहितायां वैयासिक्यां मौसलपर्वणि नवमोध्यायः॥ 9 ॥ ॥ मौसलपर्व समाप्तम् ॥ -------- अस्यानन्तरं महाप्रस्थानिकं पर्व भविष्यति तस्यायमाद्यः श्लोकः। जनमेजय उवाच। एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम्। पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते॥ 1 ॥ इदं मौसलपर्व कुंभघोणस्थेन टी.आर्. कृष्णाचार्येण टी. आर्. व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्। शकाब्दाः 1832 सन 1910.

Mahabharata - Mausala Parva - Chapter Footnotes
15-9-5 नखोदकं केशोदकं वस्त्रप्रान्तो दशा तदुदकं कुम्भमुखोदकं च। आवीरजा नारी रजस्वला तस्या रजःप्रस्रबकाले दिनत्रयादर्वाक् अनुगमनं तस्यां मैथुनं ब्राह्मणस्य वधो युद्धे पराजयश्चेति सप्तभिर्निमितैः पुरुषो भ्रष्टश्रीर्भवति। अपि राजोपघातस्ते ब्राह्मणो वेति क.ट.पाठः॥ 15-9-6 प्रभिन्नं पराजितं त्वां कदाचिदपि न जानामि॥ 15-9-11 हतं मृतम्। मारितवन्त इत्यर्थः॥ 15-9-13 पञ्चशतं सहस्रं सहस्रगुणितं पञ्चलक्षामीत्यर्थः॥ 15-9-13 न केवलं हतं ताडितमपि तु निधनं प्राप्तमित्यर्थः॥ 15-9-18 पश्यतः अनादरे षष्ठी। मां पश्यन्तमनादृत्येत्यर्थः॥ 15-9-37 वुद्धिरुपस्थितकार्यावधारणम्। तेजः प्रागल्भ्यम्। प्रतिपत्तिरनागतावेक्षणम्। भवन्ति उत्पद्यन्ते। भवकालेषु ऐश्वर्यावाप्तिसमयेषु। विपर्यये विनाशकाले। विपद्यन्ते विनश्यन्ति॥ 15-9-38 कालः ईश्वरः जगद्बीजं वियदादिपञ्चकं। समादत्ते संहरति यदा भूतानामपि संहारो भवति कियांस्तत्र भौतिकानां नाश इति तदर्थं शोकोनुचित इति भावः। य एव बलवान्स एव दुर्बलो भवत्येव विपर्ययोऽपि कालमूलो ज्ञेयः॥ 15-9-40 पुनर्युगान्तरे॥ 15-9-41 मुख्यां गतिं स्वर्गं गन्तुम् एतत्प्रस्थानं श्रेयः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.